DEVI MAHATMYAM NAVAAVARNA VIDHI – DEVANAGARI
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
रचन: ऋषि मार्कण्डेय
श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमन्त्रस्य
ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छन्दांसि
श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः,
ऐं बीजं, ह्रीं शक्ति:,
क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे
जपे
विनियोगः॥
ऋष्यादिन्यासः
ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ।
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो
नमः,हृदि । ऐं
बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः । क्लीं
कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुण्डायै
विच्चे — इति मूलेन करौ संशोध्य
करन्यासः
ॐ ऐम् अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं
तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां
नमः । ॐ चामुण्डायै अनामिकाभ्यां
नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं
ह्रीं क्लीं चामुण्डायै विच्चे
करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे
स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै
कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय
वौषट् । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
अस्त्राय फट् ।
अक्षरन्यासः
ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं
नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे
। ॐ
चां नमः, दक्षिणकर्णे ।
ॐ मुं नमः, वामकर्णे । ॐ डां नमः,
दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे ।
ॐ विं नमः, मुखे । ॐ च्चें
नमः, गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं
कुर्यात् ।
दिङ्न्यासः
ॐ ऐं प्राच्यै नमः । ॐ ऐम् आग्नेय्यै
नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं
नैऋत्यै नमः । ॐ क्लीं पतीच्यै
नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुण्डायै
उदीच्यै नमः । ॐ चामुण्डायै ऐशान्यै
नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं
चामुण्डायै विच्चे भूम्यै नमः ।
ध्यानम्
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं
भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां
सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे
महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं
मधुं कौटभम् ॥
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं
धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां
सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः
प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं
सरोजस्थिताम् ॥
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं
धनुः सायकम् ।
हस्ताब्जैर्धधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्
।
गौरीदेहसमुद्भवां त्रिजगताधारभूतां
महा ।
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्धिनीम्
॥
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि
।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे
सिद्धिदा भव ॥
ॐ अविघ्नं कुरु माले त्वं गृह्णामि
दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये
॥
ऐं ह्रीम् अक्षमालिकायै नमः ॥
108 ॥
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि
।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे
सिद्धिदा भव ॥
ॐ अविघ्नं कुरु माले त्वं गृह्णामि
दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये
॥
ॐ अक्षमालाधिपतये सुसिद्धिं देहि
देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय
परिकल्पय मे स्वाहा ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
॥ 108 ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं
जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि
॥
ॐ अक्षमालाधिपतये सुसिद्धिं देहि
देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय
परिकल्पय मे स्वाहा ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं
जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि
॥
करन्यासः
ॐ ह्रीम् अङ्गुष्ठाभ्यां नमः ।
ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां
नमः । ॐ काम् अनामिकाभ्यां नमः
। ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं
चण्डिकायै करतलकरपृष्ठाभ्यां नमः
।
हृदयादिन्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी
तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा
। हृदयाय नमः ॥
ॐ शूलेन पाहि नो देवि पाहि खड्गेन
चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन
च । शिरसे स्वाहा ॥
ॐ प्राच्यां रक्ष प्रतीञ्च्यां
च रक्ष चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां
तथेश्वरि । शिखायै वषट् ॥
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये
विचरन्ति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा
भुवम् । कवचाय हुम् ॥
ॐ खड्गशूलगदादीनि यानिचास्त्राणि
तेஉम्बिके ।
करपल्लव सङ्गीनि तैरस्मान् रक्ष
सर्वतः । नेत्रत्रयाय वौषट् ॥
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते
।
भयेभ्यस्त्राहि नो देवि दुर्गे
नमोஉस्तुते । अस्त्राय फट् ॥
ध्यानम्
ॐ विद्युद्दामप्रभां मृगपतिस्कन्धस्थितां
भीषणाम् ।
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्
।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं
गुणं तर्जनीम् ।
बिभ्राणामनलात्मिकां शशिधरां दुर्गां
त्रिनेत्रां भजे ॥
No comments:
Post a Comment