DEVI MAHATMYAM KEELAKA STOTRAM – DEVANAGARI
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
रचन: ऋषि मार्कण्डेय
अस्य श्री कीलक स्तोत्र महा मन्त्रस्य
। शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् । नवार्णो
मन्त्रशक्ति।श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन
जपे विनियोगः ।
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी
दिव्यचक्षुषे ।
श्रेयः प्राप्ति निमित्ताय नमः
सोमार्थ धारिणे ॥1॥
सर्वमेत द्विजानीयान्मन्त्राणापि
कीलकम् ।
सोஉपि क्षेममवाप्नोति सततं जाप्य तत्परः
॥2॥
सिद्ध्यन्तुच्चाटनादीनि कर्माणि
सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन
भक्तितः ॥3॥
न मन्त्रो नौषधं तस्य न किञ्चि
दपि विध्यते ।
विना जाप्यम् न सिद्ध्येत्तु सर्व
मुच्चाटनादिकम् ॥4॥
समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का
मिमां हरः ।
कृत्वा निमन्त्रयामास सर्व मेव
मिदं शुभम् ॥5॥
स्तोत्रंवै चण्डिकायास्तु तच्च
गुह्यं चकार सः ।
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥6॥
सोपिஉक्षेम मवाप्नोति सर्व मेव न संशयः
।
कृष्णायां वा चतुर्दश्याम् अष्टम्यां
वा समाहितः ॥6॥
ददाति प्रतिगृह्णाति नान्य थैषा
प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥8॥
यो निष्कीलां विधायैनां चण्डीं
जपति नित्य शः ।
स सिद्धः स गणः सोஉथ गन्धर्वो जायते ध्रुवम् ॥9॥
न चैवा पाटवं तस्य भयं क्वापि न
जायते ।
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात् ॥10॥
ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो
विनश्यति ।
ततो ज्ञात्वैव सम्पूर्नम् इदं प्रारभ्यते
बुधैः ॥11॥
सौभाग्यादिच यत्किञ्चिद् दृश्यते
ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं
शुभं ॥12॥
शनैस्तु जप्यमानेஉस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेवतत्
॥13॥
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः
।
शत्रुहानिः परो मोक्षः स्तूयते
सान किं जनै ॥14॥
चण्दिकां हृदयेनापि यः स्मरेत्
सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी
सदा वसेत् ॥15॥
अग्रतोஉमुं महादेव कृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं
समाहितैः ॥16॥
॥ इति श्री भगवती कीलक स्तोत्रं
समाप्तम् ॥
No comments:
Post a Comment