DEVI MAHATMYAM DEVI
KAVACHAM – DEVANAGARI
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
रचन: ऋषि मार्कण्डेय
ॐ नमश्चण्डिकायै
न्यासः
अस्य श्री चण्डी कवचस्य । ब्रह्मा
ऋषिः । अनुष्टुप् छन्दः ।
चामुण्डा देवता । अङ्गन्यासोक्त
मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे
सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं
नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि
पितामह ॥ 1 ॥
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्
।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व
महामुने ॥ 2 ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी
।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति
चतुर्थकम् ॥ 3 ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति
च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्
॥ 4 ॥
नवमं सिद्धिदात्री च नवदुर्गाः
प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव
महात्मना ॥ 5 ॥
अग्निना दह्यमानस्तु शत्रुमध्ये
गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं
गताः ॥ 6 ॥
न तेषां जायते किञ्चिदशुभं रणसङ्कटे
।
नापदं तस्य पश्यामि शोकदुःखभयं
न हि ॥ 7 ॥
यैस्तु भक्त्या स्मृता नूनं तेषां
वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे
तान्नसंशयः ॥ 8 ॥
प्रेतसंस्था तु चामुण्डा वाराही
महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना
॥ 9 ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना
।
लक्ष्मीः पद्मासना देवी पद्महस्ता
हरिप्रिया ॥ 10 ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना
।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता
॥ 11 ॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः
।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः
॥ 12 ॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः
।
शङ्खं चक्रं गदां शक्तिं हलं च
मुसलायुधम् ॥ 13 ॥
खेटकं तोमरं चैव परशुं पाशमेव च
।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्
॥ 14 ॥
दैत्यानां देहनाशाय भक्तानामभयाय
च ।
धारयन्त्यायुधानीत्थं देवानां च
हिताय वै ॥ 15 ॥
नमस्तेஉस्तु महारौद्रे महाघोरपराक्रमे
।
महाबले महोत्साहे महाभयविनाशिनि
॥ 16 ॥
त्राहि मां देवि दुष्प्रेक्ष्ये
शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता
॥ 17 ॥
दक्षिणेஉवतु वाराही नैरृत्यां खड्गधारिणी
।
प्रतीच्यां वारुणी रक्षेद्वायव्यां
मृगवाहिनी ॥ 18 ॥
उदीच्यां पातु कौमारी ऐशान्यां
शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी
तथा ॥ 19 ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना
।
जया मे चाग्रतः पातु विजया पातु
पृष्ठतः ॥ 20 ॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता
।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि
व्यवस्थिता ॥ 21 ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी
।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा
च नासिके ॥ 22 ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी
।
कपोलौ कालिका रक्षेत्कर्णमूले तु
शाङ्करी ॥ 23 ॥
नासिकायां सुगन्धा च उत्तरोष्ठे
च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती
॥ 24 ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे
तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया
च तालुके ॥ 25 ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे
सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे
धनुर्धरी ॥ 26 ॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी
।
स्कन्धयोः खड्गिनी रक्षेद्बाहू
मे वज्रधारिणी ॥ 27 ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु
च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी
॥ 28 ॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी
।
हृदये ललिता देवी उदरे शूलधारिणी
॥ 29 ॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी
तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी
॥ 30 ॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी
।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी
॥ 31 ॥
गुल्फयोर्नारसिंही च पादपृष्ठे
तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी
॥ 32 ॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी
।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी
तथा ॥ 33 ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि
पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं
च मुकुटेश्वरी ॥ 34 ॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा
।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु
॥ 35 ॥
शुक्रं ब्रह्माणि! मे रक्षेच्छायां
छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे
धर्मधारिणी ॥ 36 ॥
प्राणापानौ तथा व्यानमुदानं च समानकम्
।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना
॥ 37 ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे
च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी
सदा ॥ 38 ॥
आयू रक्षतु वाराही धर्मं रक्षतु
वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां
च चक्रिणी ॥ 39 ॥
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे
रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां
रक्षतु भैरवी ॥ 40 ॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी
तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः
स्थिता ॥ 41 ॥
रक्षाहीनं तु यत्-स्थानं वर्जितं
कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयन्ती
पापनाशिनी ॥ 42 ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः
।
कवचेनावृतो नित्यं यत्र यत्रैव
गच्छति ॥ 43 ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः
।
यं यं चिन्तयते कामं तं तं प्राप्नोति
निश्चितम् ॥ 44 ॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले
पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः
॥ 45 ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः
पुमान् ।
इदं तु देव्याः कवचं देवानामपि
दुर्लभम् ॥ 46 ॥
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं
श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः
। 47 ॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः
।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः
॥ 48 ॥
स्थावरं जङ्गमं चैव कृत्रिमं चैव
यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि
भूतले ॥ 49 ॥
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः
।
सहजा कुलजा माला डाकिनी शाकिनी
तथा ॥ 50 ॥
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः
।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः
॥ 51 ॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा
भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि
संस्थिते ॥ 52 ॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं
परम् ।
यशसा वर्धते सोஉपि कीर्तिमण्डितभूतले ॥ 53 ॥
जपेत्सप्तशतीं चण्डीं कृत्वा तु
कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम्
॥ 54 ॥
तावत्तिष्ठति मेदिन्यां सन्ततिः
पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि
दुर्लभम् ॥ 55 ॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः
।
लभते परमं रूपं शिवेन सह मोदते
॥ 56 ॥
॥ इति वाराहपुराणे हरिहरब्रह्म
विरचितं देव्याः कवचं सम्पूर्णम् ॥
No comments:
Post a Comment