DEVI MAHATMYAM DURGA SAPTASATI CHAPTER 8 – DEVANAGARI
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
रचन: ऋषि मार्कण्डेय
रक्तबीजवधो नाम अष्टमोध्याय ॥
ध्यानं
अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश
पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव
विभावये भवानीम् ॥
ऋषिरुवाच ॥1॥
चण्डे च निहते दैत्ये मुण्डे च
विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः
॥ 2 ॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान्
।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश
ह ॥3॥
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः
।
कम्बूनां चतुरशीतिर्निर्यान्तु
स्वबलैर्वृताः ॥4॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि
वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु
ममाज्ञया ॥5॥
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः
।
युद्धाय सज्जा निर्यान्तु आज्ञया
त्वरिता मम ॥6॥
इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः
।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम्
।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥8॥
ततःसिंहो महानादमतीव कृतवान्नृप
।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥9॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा
।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम्
।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥11॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्
।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य
च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां
ययुः ॥13॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम्
।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ
॥14॥
हंसयुक्तविमानाग्रे साक्षसूत्रक
मण्डलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी
त्यभिधीयते ॥15॥
महेश्वरी वृषारूढा त्रिशूलवरधारिणी
।
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा
॥16॥
कौमारी शक्तिहस्ता च मयूरवरवाहना
।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥17॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता
।
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ
॥18॥
यज्ञवाराहमतुलं रूपं या भिभ्रतो
हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं
बिभ्रती तनुम् ॥19॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं
वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र
संहतिः ॥20॥
वज्र हस्ता तथैवैन्द्री गजराजो
परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव
सा ॥21॥
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः
।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह
चण्डिकां ॥22॥
ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा
।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥
सा चाह धूम्रजटिलम् ईशानमपराजिता
।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥24॥
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ
।
ये चान्ये दानवास्तत्र युद्धाय
समुपस्थिताः ॥25॥
त्रैलोक्यमिन्द्रो लभतां देवाः
सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः
।
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन
वः ॥27॥
यतो नियुक्तो दौत्येन तया देव्या
शिवः स्वयम् ।
शिवदूतीति लोकेஉस्मिंस्ततः सा ख्याति मागता ॥28॥
तेஉपि श्रुत्वा वचो देव्याः शर्वाख्यातं
महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी
स्थिता ॥29॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः
।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः
॥30॥
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान्
।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः
॥31॥
तस्याग्रतस्तथा काली शूलपातविदारितान्
।
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती
व्यचरत्तदा ॥32॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः
।
ब्रह्माणी चाकरोच्छत्रून्येन येन
स्म धावति ॥33॥
माहेश्वरी त्रिशूलेन तथा चक्रेण
वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति
कोपना ॥34॥
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः
।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः
॥35॥
तुण्डप्रहारविध्वस्ता दंष्ट्रा
ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च
विदारिताः ॥36॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती
महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा
॥37॥
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः
।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ
सा तदा ॥38॥
इति मातृ गणं क्रुद्धं मर्द यन्तं
महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः
॥39॥
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान्
।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो
महासुरः ॥40॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य
शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो
महासुरः ॥41॥
युयुधे स गदापाणिरिन्द्रशक्त्या
महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत्
॥42॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम्
।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः
॥43॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः
।
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः
॥44॥
ते चापि युयुधुस्तत्र पुरुषा रक्त
सम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥
पुनश्च वज्र पातेन क्षत मश्य शिरो
यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः
॥46॥
वैष्णवी समरे चैनं चक्रेणाभिजघान
ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥47॥
वैष्णवी चक्रभिन्नस्य रुधिरस्राव
सम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः
॥48॥
शक्त्या जघान कौमारी वाराही च तथासिना
।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्
॥49॥
स चापि गदया दैत्यः सर्वा एवाहनत्
पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः
॥50॥
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः
।
पपात यो वै रक्तौघस्तेनासञ्चतशोஉसुराः ॥51॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं
जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥
तान् विषण्णा न् सुरान् दृष्ट्वा
चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं
वदनं कुरु ॥53॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्
महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन
वेगिना ॥54॥
भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान्
।
एवमेष क्षयं दैत्यः क्षेण रक्तो
गमिष्यति ॥55॥
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति
चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान
तम् ॥56॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम्
।
ततोஉसावाजघानाथ गदया तत्र चण्डिकां
॥57॥
न चास्या वेदनां चक्रे गदापातोஉल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव
शोणितम् ॥58॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति
।
मुखे समुद्गता येஉस्या रक्तपातान्महासुराः ॥59॥
तांश्चखादाथ चामुण्डा पपौ तस्य
च शोणितम् ॥60॥
देवी शूलेन वज्रेण बाणैरसिभिर्
ऋष्टिभिः ।
जघान रक्तबीजं तं चामुण्डा पीत
शोणितम् ॥61॥
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः
।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥
ततस्ते हर्ष मतुलम् अवापुस्त्रिदशा
नृप ।
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ॥63॥
॥ स्वस्ति श्री मार्कण्डेय पुराणे
सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥
आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै
सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥
No comments:
Post a Comment